________________
प्रायश्चित्तसंग्रहे
परिसरसघाणचक्खूसोदादिचारे पयत्तइयरस्स। काउस्सग्गुववासा एगुत्तरवड्डिया कमसो ॥ ४६ ॥
स्पर्शरसघ्राणचक्षुःश्रोत्रातिचारे प्रयत्नेतरयोः ।
कायोत्सर्गोपवासा एकोत्तरवर्द्धिताः क्रमशः ॥ अस्या अर्थः-प्रयत्नाचारस्य मुनेः कायस्पर्शस्योपरिचित्ताभिलाषेकायोत्सर्ग एकः । रसस्योपरि चित्ताभिलाषे कायोत्सर्गौ २ (द्वौ ) । घ्राणस्पृहाभिलाषे कायोत्सर्गाः ३ ( त्रयः )। चक्षुः स्पृहायां कायोत्सर्गाः ४ ( चत्वारः)।श्रोत्रस्पृहायां कायोत्सर्गाः ५ (पंच)। अथ अप्रयत्नचारिणः एकवारं चित्तोत्कोचे उपवासः १ . ( एकः )। तथा तेन क्रमेण जिव्हाघ्राणचक्षुःश्रवणानां एकवारचित्तोत्कोचे जाते सति उपवासमेकमिति एकैकोत्तरवृद्धया ॥
इन्द्रियनिरोधम् ।
वंदणणियमविरहिदे उववासो होइ कालछिण्णे य । तह सज्झायचउक्के काउसग्गो अवेलाए ॥४७॥
वन्दनानियमरहिते उपवासो भवति कालछिन्ने च ।
तथा स्वाध्यायचतुष्के कायोत्सर्गः अवेलायां ॥ अस्या अर्थः-वन्दनया विना उपवासः । पूर्वाह्ने देववन्दनां त्रीणि घटिका यावान् युक्तं । अपराह्ने घटिकां चत्वारि यावान् वन्दना । मध्यान्हे घटिकाद्वयं वन्दना स्वाध्याय चत्वारि न कुर्वति सति उपवासः । अवेलायां गृहीते सति कायोत्सर्गम् ॥ . आवासयपरिहीणो अद्धं इक्कं च चउरमासाणि । खवणं पण संठाणं मूलह्मि य होइ वासहि ॥ ४८ ॥
आवश्यकपरिहीनः अर्द्ध एकं च चतुर्मासान् । क्षमणं पचकं संस्थानं मूले च भवति वर्षे ॥