________________
छेदशास्त्रम् ।
आधाकर्मणि भुक्ते म्लानः नीरोगः एकबहुवारे ।
उपवासः षष्ठं मासिकं मूलमपि च भवति मलहरणं ॥ अस्या अर्थः-व्याधिग्रस्तः आधाकर्माण भुक्ते तस्योपवासः । अथ बहुवारायां षष्ठं । अथ आरोग्यस्य पंचकल्याणं । बहुवारायां भुक्ते स मूलस्थानीभवति ॥
एषणासमितिः।
कहादिवियडिचालण ठाणादो वा खिवेज्ज अण्णत्तं । काउस्सग्गं पाइय चक्खूविसयमि उववासो ॥४४॥
काष्ठादिवियडिचालनं स्थानतो वा क्षिपेदन्यत्र ।
कायोत्सर्ग प्राप्नोति अचक्षुविषये उपवासः ॥ अस्या अर्थः-काष्ठादिवियडि अन्यत्र स्थितः अन्यत्र स्थापिते कायोत्सर्ग । अथातो वियडिं पृथक्कृत्वा रात्रौ स्थापितः उपवासमेकं । अन्धकारे विशेषतः ॥
आदाननिक्षेपणासमितिः ।
हरियादिबीज उवरिं उच्चाराई करेइ राइम्हि । थोवे काउस्तग्गो उववासो जाण बहुवारे ॥४५॥
हरितादिबीजानां उपरि उच्चारादिकं करोति रात्रौ ।
स्तोके कायोत्सर्ग उपवासं जानीहि बहुवारे ॥ अस्या अर्थः-रात्री हरितकायोपरि वोसरणे कायोत्सर्ग । तदेव बहुवारान् उपवासम् ॥
प्रतिष्ठापनासमितिः।