SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ छेदशास्त्रम् । छकम्मदेसयरणे उववासो अटुमं च गीदादी | चाउव्वण्णवराधे गण ( दो ) णिग्धाडणं होइ ॥ ३७ ॥ षटूर्मदेशकरणे उपवासः अष्टमं च गीतादेः । चतुर्वर्णापराधे गणतो निर्घाटनं भवति ॥ अस्या अर्थ:-गृहस्थषटुर्मोपदेशके उपवासमेकं । गीतं वाद्यं नृत्यं स्वयं करोति अष्टमं । चातुर्वर्ण्यस्यापराधं वदति स निर्घाटनीयो भवति - परगणे प्रेषणीय इति ॥ भाषा समितिः अण्णाणवाहिदप्पे भक्खणं कंदादि एकबहुवारं । काउस्सग्गुववासा खवणं पणगं च मूलगुणं ॥ ३८ ॥ अज्ञानन्याधिदः भक्षणं कन्दादेः एकबहुवारं । कायोत्सर्गेोपवासौ क्षमणं पंचकं च मूलगुणं ॥ ८७ अस्या अर्थः- अज्ञानत्वेन कन्दादिभक्षणं करोति एकवारं कायोत्सर्ग । बहु वारायां उपवासमेकं । ब्याधिग्रस्ते एकवारायां उपवासमेकं । बहुवारायां खादति तदा कल्याणमेकं । अथ प्रमत्तो भूत्वा हरितकंदादिकं ज्ञात्वा भक्षयति तस्य पंचकल्याणं । अथ दर्पण वर्षानुवर्षे खादति तस्य ( स ) मूलस्थानं याति ॥ णिडवणं भणिय भुत्ते वसालंवे य कुड्डढक्कस्स । चउरंगुलठिदिरहिदे खवणगिलाणे य छड ससेसु ॥ ३९ ॥ निष्ठीवनं भणित्वा भुक्ते वंशालंबेन च कुड्यावष्टंभस्य । चतुरंगुलस्थितिरहिते क्षमणं ग्लाने च षष्ठं शेषेषु ॥ अस्या अर्थः-याधिग्रस्तो निष्ठीवनं करोति । कुड्यावष्टंभं करोति । पादान्तरं चतुरंगुलं लंघयति तदा उपवासमेकं । अथ आरोग्यः दर्पेण करोति तदा षष्ठं भवति ॥
SR No.022325
Book TitlePrayaschitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year1922
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy