SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ त्रिष० पर्व - १० - सर्ग - १ ] 71 " यस्तपः स्वतिचारोऽभूद्, बाह्येष्वाभ्यन्तरेषु च । त्रिविधं त्रिविधेनाऽपि निन्दामि तमहं खलु ॥ १२ ॥ [ अध्याय- १ धर्मानुष्ठानविषये, यद्वीर्यं गोपितं मया । वीर्याचाराऽतिचारं च, निन्दामि तमपि त्रिधा ॥ १३ ॥ हतो दुरुक्तश्च मया, यो यस्याहारि किचन । यस्याऽपाकारि किंचिद्वा, मम क्षाम्यतु सोऽखिलः || १४ || यश्च मित्रममित्रो वा स्वजनोऽरिजनोऽपि वा । सर्व: क्षाम्यतु मे सर्व, सर्वेष्वपि समोऽस्म्यहम् ॥ १५ ॥ तिर्यक्त्वे सति तिर्यञ्चो, नारकत्वे च नारकाः । अमरा अमरत्वे च, मानुषत्वे च मानुषाः ये मया स्थापिता दुःखे, सर्वे क्षाम्यन्तु ते मम । क्षाम्याम्यहमपि तेषां मैत्री सर्वेषु मे खलु ॥ १६ ॥ ॥ १७ ॥ जीवितं यौवनं लक्ष्मी, रूपं प्रियसमागमः | चलं सर्वमिदं वात्या - नर्तिताऽब्धितरंगवत् ॥ १८ ॥ 1 व्याधिजन्मजरामृत्यु - प्रस्तानां प्राणिनामिह । विना जिनोदितं धर्मं, शरणं कोऽपि नाऽपरः ॥ १९ ॥ सर्वेऽपि जीवाः स्वजना, जाताः परजनाश्च ते । विदधीत प्रतिबन्धं तेषु को हि मनागपि ।। २० ।।
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy