________________
अध्याय-१ ]
70 [ स्वाध्यायदोहनया कृता प्राणिनां हिंसा, सूक्ष्मा वा बादराऽपि वा। मोहाद्वा लोभतो वाऽपि, व्युत्सृजामि त्रिधाऽपि ताम् ॥३॥ हास्यभीलोभक्रोधायै-यन्मृषा भाषितं मया । तत्सर्वमपि निन्दामि, प्रायश्चित्तं चरामि च ॥४॥ अल्पं भूरि च यत्क्वापि, परद्रव्यमदत्तकम् । आत्तं रागादथ द्वेषात्-तत्सर्वं व्युत्सृजाम्यहम् ॥५॥ तैरश्चं मानुषं दिव्यं, मैथुनं मयका पुरा । यत्कृतं त्रिविधेनाऽपि त्रिविधं व्युत्सृजामि तत् ॥ ६ ॥ बहुधा यो धनधान्य-पश्वादीनां परिग्रहः । लोभदोषान्मयाऽकारि, व्युत्सृजामि त्रिधाऽपि तम् ॥ ७ ॥ पुत्रे कलत्रे मित्रे च, बन्धौ धान्ये धने गृहे । अन्येष्वपि ममत्वं य-त्तत्सर्व व्युत्सृजाम्यहम् ॥ ८ ॥ इन्द्रियैरभिभूतेन, य आहारश्चतुर्विधः । मया रात्रावुपाभोजि, निन्दामि तमपि त्रिधा ॥९॥ क्रोधो मानो माया लोभो, रागो द्वेषः कलिस्तथा । पैशून्यं परनिर्वादोऽ-भ्याख्यानमपरं च यत् ॥१०॥ चारित्राचारविषयं, दुष्टमाऽऽचरितं मया । तदहं त्रिविधेनाऽपि, व्युत्सृजामि समन्ततः ॥ ११ ॥