________________
अध्याय-१ ]
72 [स्वाध्यायदोहनएक उत्पद्यते जन्तु-रेक एव विपद्यते ।। सुखान्यनुभवत्येको, दुःखान्यपि स एव हि ॥२१॥ अन्यद्वपुरिदं ताव-दन्यद्धान्यधनादिकम् । बन्धवोऽन्येऽन्यश्च जीवो, वृथा मुह्यति वालिशः ॥ २२ ॥ वसारुधिरमांसाऽस्थि-यकृद्विण्मूत्रपूरिते। वपुष्यशुचिनिलये, मूच्छा कुर्वीत कः सुधीः ॥ २३ ॥ अवक्रयाऽऽत्तवेश्मेव, मोक्तव्यमऽचिरादपि । लालितं पालितं वाऽपि, विनश्वरमिदं वपुः ॥२४ ॥ धीरेण कातरेणाऽपि, मतव्यं खलु देहिना । तन्नियेत तथा धीमान् , न म्रियेत यथा पुनः ॥ २५ ॥ अर्हन्तो मम शरणं, शरणं सिद्धसाधवः । उदीरितः केवलिभि-धर्मः शरणमुच्चकैः ॥२६॥ जिनधर्मो मम माता, गुरुस्तातोऽथ सोदराः । साधवः साधर्मिकाश्च, बन्धवोऽन्यत्तु जालवत् ॥ २७ ॥ ऋषभादीस्तीर्थकरान्-नमस्याम्यखिलानऽपि । भरतैरावतविदे-हाऽर्हतोऽपि नमाम्यहम् ॥ २८ ॥ तीर्थकृद्भयो नमस्कारो, देहभाजां भवच्छिदे । . भवति क्रियमाणः स, बोधिलाभाय चोच्चकैः ॥ २९ ॥