________________
त्रिष० पर्व-१०-सर्ग-१] 73
[ अध्याय-१सिद्धेभ्यश्च नमस्कारं, भगवद्भयः करोम्यहम् । कर्कंधो ऽदाहि यैानाऽ-ग्निना भवसहस्रजम् ॥ ३० ॥ आचार्येभ्यः पञ्चविधाऽऽ-चारेभ्यश्च नमो नमः । यै र्धार्यते प्रवचनं, भवच्छेदे सदोद्यतैः ॥३१॥ श्रुतं बिभ्रति ये सर्व, शिष्येभ्यो व्याहरन्ति च । नमस्तेभ्यो महात्मभ्य-उपाध्यायेभ्य उच्चकैः ॥ ३२ ॥ शीलव्रतसनाथेभ्यः, साधुभ्यश्च नमो नमः । भवलक्षसन्निबद्धं, पापं निर्नाशयन्ति ये ॥ ३३ ॥ सावद्ययोगमुपधिं, बाह्यमाऽऽभ्यन्तरं तथा । यावज्जीवं त्रिविधेन, त्रिविधं व्युसृजाम्यहम् ॥ ३४ ॥ चतुर्विधाऽऽहारमपि, यावज्जीवं त्यज्याम्यहम् । उच्छासे चरमे देह-मपि हि व्युत्सृजाम्यहम् ॥ ३५ ॥ दुष्कर्मगर्हणां जन्तु-क्षमणां भावनामपि । चतुःशरणं च नम-स्कारं चानशनं तथा ॥३६॥