________________
॥ ॐ ऐ नमः ॥ द्वितीयः अध्यायः (२) [ श्री वीतरागस्तोत्रादि-जिनस्तवाः ]
वीतरागस्तोत्रम् ।
यः परात्मा परञ्ज्योतिः, परमः परमेष्ठिनाम् । आदित्यवर्ण तमसः, परस्तादाऽऽमनन्ति यम् ॥१॥ सर्वे येनोदमूल्यन्त, समूलाः केशपादपाः । मूर्धा यस्मै नमस्यन्ति, सुराऽसुरनरेश्वराः ॥२॥ प्रावर्त्तन्त यतो विद्याः, पुरुषार्थप्रसाधिकाः । यस्य ज्ञानं भवद्भाविभूतभावाऽवभासकृत् ॥३॥ यस्मिन्विज्ञानमानन्दं, ब्रह्म चैकाऽऽत्मतां गतम् । स श्रद्धेयः स च ध्येयः, प्रपद्ये शरणं च तम् ॥४॥ तेन स्यां नाथवास्तस्मै, स्पृहयेयं समाहितः। ततः कृतार्थो भूयासं, भवेयं तस्य किङ्करः ॥५॥