________________
वीत. प्रकाश० १-२-३] 75
[ अध्याय-2तत्र स्तोत्रेण कुयों च, पवित्रां स्वां सरस्वतीम् । इदं हि भवकान्तारे, जन्मिनां जन्मनः फलम् ॥६॥ काहं पशोरपि पशुतिरागस्तवः क च ?। उत्तितीपुररण्यानी, पद्भयां पङ्गुरिवारम्यतः ॥ ७ ।। तथापि श्रद्धामुग्धोऽहं, नोपालभ्यः स्खलन्नपि । विशृङ्खलापि वाग्वृत्तिः, श्रद्दधानस्य शोभते ॥८॥
प्रियङ्गुस्फटिकस्वर्णपद्मरागाञ्जनप्रभः । प्रभो ! तवाऽधौतशुचिः, कायः कमिव नाऽक्षिपेत् ? ॥१॥ मन्दारदामवन्नित्यमवासितसुगन्धिनि । तवाऽङ्गे भृङ्गतां यान्ति, नेत्राणि सुरयोषिताम् ॥२॥ दिव्याऽमृतरसाऽऽस्वादपोषप्रतिहता इव ।। समाविशन्ति ते नाथ !, नाऽङ्गे रोगोरगव्रजाः ॥३॥
त्वय्यादर्शतलालीन-प्रतिमाप्रतिरूपके । क्षस्त्स्वेदविलीनत्वकथाऽपि वपुषः कुतः ? . ॥४॥