________________
अध्याय-२]
___76
[स्वाध्यायदोहन
॥
५
॥६॥
न केवलं रागमुक्तं, वीतराग ! मनस्तव । वपुःस्थितं रक्तमपि, क्षीरधारासहोदरम् जगद्विलक्षणं किं वा, तवान्यद्वक्तुमीश्महे ? । यदविस्रमबीभत्सं, शुभ्रं मांसमपि प्रभो ! जलस्थलसमुद्भूताः, सन्त्यज्य सुमनःस्रजः । तव निःश्वाससौरभ्य-मनुयान्ति मधुव्रताः लोकोत्तरचमत्कारकरी तव भवस्थितिः । यतो नाऽऽहारनीहारौ, गोचरश्चर्मचक्षुषाम्
॥८॥
सर्वाऽभिमुख्यतो नाथ !, तीर्थकृन्नामकर्मजात् । सर्वथा सम्मुखीनस्त्वमानन्दयसि यत्प्रजाः ॥१॥ यद्योजनप्रमाणेऽपि, धर्मदेशनसद्मनि । सम्मान्ति कोटिशस्तिर्यग्नदेवाः सपरिच्छदाः ॥२॥ तेषामेव स्वस्वभाषापरिणाममनोहरम् । .. अप्येकरूपं वचनं, यत्ते धर्माऽवबोधकृत् ॥३॥