________________
वीत० स्तो० प्र० ३-४ ]
77
[ अध्याय-१
साग्रेऽपि योजनशते, पूर्वोत्पन्ना गदाम्बुदाः । यदऽञ्जसा विलीयन्ते, त्वद्विहाराऽनिलोर्मिभिः ॥४॥ नाऽविर्भवन्ति यद्भूमौ, मूषकाः शलभाः शुकाः । क्षणेन क्षितिपक्षिप्ता अनीतय इवेतयः स्त्रीक्षेत्रपद्रादिभवो, यद्वैराग्निः प्रशाम्यति । त्वत्कृपापुष्करावर्त्तवर्षादिव भुवस्तले । त्वत्प्रभावे भुवि भ्राम्यत्यशिवोच्छेदडिण्डिमे । सम्भवन्ति न यन्नाथ !, मारयो भुवनाऽरयः ॥ ७ ॥ कामवर्षिणि लोकानां, त्वयि विश्वकवत्सले । अतिवृष्टिरवृष्टिर्वा, भवेद्यन्नोपतापकृत् ॥ ८ ॥ स्वराष्ट्र-परराष्ट्रेभ्यो, यत्क्षुद्रोपद्रवा द्रुतम् । विद्रवन्ति त्वत्प्रभावात्, सिंहनादादिव द्विपाः ॥९॥ यत्क्षीयते च दुर्भिक्षं, क्षितौ विहरति त्वयि । सर्वाऽद्भुतप्रभावाढये, जङ्गमे कल्पपादपे ॥१०॥ यन्मूलः पश्चिमे भागे, जितमार्तण्डमण्डलम् । मा भूद्वपुर्दुरालोकमितीवोत्पिण्डितं महः . . . ॥ ११ ॥