________________
अध्याय-२]
[ स्वाध्यायदोहनस एष योगसाम्राज्यमहिमा विश्वविश्रुतः । कर्मक्षयोत्थो भगवन् !, कस्य नाश्चर्यकारणम् ? ॥ १२ ॥ अनन्तकालप्रचितमनन्तमपि सर्वथा । त्वत्तो नाऽन्यः कर्मकक्षमुन्मूलयति मूलतः ॥ १३ ॥ तथोपाये प्रवृत्तस्त्वं, क्रियासमभिहारतः । यथाऽनिच्छन्नुपेयस्य, परां श्रियमऽशिश्रियः ॥ १४ ॥ मैत्रीपवित्रपात्राय, मुदिताऽऽमोदशालिने । कृपोपेक्षाप्रतीक्षाय, तुभ्यं योगात्मने नमः ॥१५॥
॥१॥
10
॥२॥
मिथ्यादृशां युगान्ताऽर्कः, सुदृशाममृताञ्जनम् । तिलकं तीर्थकृल्लक्ष्म्याः , पुरश्चक्रं तवैधते एकोऽयमेव जगति, स्वामीत्याख्यातुमुच्छ्रिता । उच्चैरिन्द्रध्वजव्याजात्तर्जनी जम्भविद्विषा यत्र पादौ पदं धत्तस्तव तत्र सुरासुराः । किरन्ति पङ्कजव्याजाच्छ्रियंपङ्कजवासिनीम् दानशीलतपोभावभेदाद्धर्मं चतुर्विधम् । मन्ये युगपदाऽऽख्यातुं, चतुर्वक्त्रोऽभवद्भवान्
॥३॥
॥४॥