________________
घीत. स्तो० प्र० ४-५] 79
[अध्याय-२त्वयि दोषत्रयात्रातुं, प्रवृत्ते भुवनत्रयीम् । प्राकारत्रितयं चक्रुखयोऽपि त्रिदिवौकसः अधोमुखाः कण्टकाः स्युर्धात्र्यां विहरतस्तव । भवेयुः सम्मुखीनाः किं, तामसास्तिग्मरोचिषः? ॥ ६॥ केशरोमनखश्मश्रु, तवाऽवस्थितमित्ययम् । बाह्योऽपि योगमहिमा, नाप्तस्तीर्थकरैः परैः ॥७॥ शब्दरूपरसस्पर्शगन्धाख्याः पञ्च गोचराः । भजन्ति प्रातिकूल्यं न, त्वदऽग्रे तार्किका इव ॥ ८ ॥ त्वत्पादावृतवः सर्वे, युगपत्पर्युपासते । आकालकृतकन्दर्पसाहायकभयादिव
॥९॥ सुगन्ध्युदकवर्षेण, दिव्यपुष्पोत्करेण च । भावित्वत्पादसंस्पर्शा, पूजयन्ति भुवं सुराः ॥१०॥ जगत्प्रतीक्ष्य ! त्वां यान्ति, पक्षिणोऽपि प्रदक्षिणम् । का गतिमहतां तेषां, त्वयि ये वामवृत्तयः? ॥११॥ पश्चेन्द्रियाणां दौःशील्यं, क भवेद्भवदन्तिके ?।। एकेन्द्रियोऽपि यन्मुश्चत्यनिलः प्रतिकूलताम् ॥१२॥ मू| नमन्ति तरवस्त्वन्माहात्म्यचमत्कृताः । तत्कृतार्थं शिरस्तेषां, व्यर्थ मिथ्यादृशां पुनः ॥१३॥