________________
त्रिष० पर्व-१०-सर्ग-२] 67
[ अध्याय-१सिद्धाऽनन्तचतुष्काय, सर्वाऽतिशयशालिने । औदासिन्यनिषण्णायै-कप्रसन्नाय ते नमः अत्यन्तोपद्रवकरे, प्रतिजन्म दुरात्मनि । मेघमालिनि करुणा, करुणा कुत्र ते न हि ॥ ७ ॥ तिष्ठतो यत्र कुत्राऽपि, गच्छतो यत्र कुत्रचित् । त्वत्पादपद्मशरणं, माऽपयातु हृदो मम ॥८॥
५५ *श्रीमहावीरस्वामि-जिनस्तवः नमोऽहते भगवते, स्वयंबुद्धाय वेधसे । तीर्थंकरायाऽदिकृते, पुरुषेषूत्तमाय ते नमोलोकप्रदीपाय, लोकप्रद्योतकारिणे। लोकोत्तमाय लोकाऽधी-शाय लोकहिताय ते ॥२॥ नमस्ते पुरुषवर-पुंडरीकाय शंभवे । पुरुषसिंहाय पुरु-पैक गन्धद्विपाय ते चक्षुर्दायाऽभयदाय, बोधिदायाऽध्वदायिने । धर्मदाय धर्मदेष्ट्रे, नमः शरणदायिने ॥ ४ ॥ * समवसरणभुवि शकेन्द्र सन्दब्धः ।