________________
त्रिष० पर्व-७-८-सर्ग-११-५] 61
अध्याय-१धर्मबीजसमुद्धत्रे, धऽतिशयसंपदाम् । श्रुतस्कन्धविधात्रे च, भगवन् ! भवते नमः ॥ ४ ॥ प्रत्यादेष्टुः कुमार्गाणा-मादेष्टुर्मुक्तिवर्त्मनः। धर्मः प्रभविता त्वत्त-उपदेष्टुरतः परम् नव्यतीर्थप्रतिष्ठातु-रनुष्ठातुस्तपःश्रियाम् । प्रभो ! जगदधिष्टातु-र्भवतः किंकरा वयम् ॥६॥ आदातर्यपवर्गस्य, विश्वस्याऽभयदातरि । त्वयि त्रैलोक्यशरणे, प्रपन्नशरणोऽस्म्यहम् ॥७॥ अस्मिन् भवे यथाभूस्त्वं, प्रभुर्मम जगत्पते ! ।। भवाऽन्तरेष्वपि तथा, भूया नाऽन्यो मनोरथः ॥ ८॥
*श्री नमिनाथ-जिनस्तवः केवलज्ञानसंज्ञेन, चक्षुषा वीक्षसेऽखिलम् । जगदेतत्तदेवं ते, त्रिनेत्राय नमः प्रभो ! पंचत्रिंशदतिशय-वचसे :परमेष्टिने । चतुस्त्रिंशदतिशयाऽ-न्विताय भवते नमः * समवसरणभुवि शकेन्द्रसन्हब्धः।