________________
वव्याय-१]
62
[ स्वाध्यायदोहन
मालवकैशिकीमुख्य-ग्रामरागमनोरमाम् । सर्वभाषानुगां नाथ !, तव वाचमुपास्महे त्वदर्शनात् प्रणश्वंति, कर्मपाशाः शरीरिगाम् । तााऽवलोकनान्नाग-पाशा इव दृढा अपि ॥४॥ त्वदर्शनादेहभाजो-ऽधिरोहंति शनैः शनैः । निश्रेणिमिव मोक्षस्य, गुणस्थानकमालिकाम् ॥५॥ स्मृतः श्रुतः स्तुतो ध्यातो, दृष्टः स्पृष्टो नमस्कृतः। येन तेन प्रकारेण, स्वामिन् ! भवसि शर्मणे ॥६॥ स्वामिन् ! पुण्यानुबंधीनि, पूर्वपुण्यानि नः खलु । यस्त्वं दृग्गोचरं नीतो-ऽसाधारणगतिप्रदः ॥७॥ यथा तथा ममास्त्वन्यत्, स्वर्गराज्यादि सर्वतः । मा जातु हृदयाद्यान्तु, नाथ ! त्वद्देशनागिरः ॥८॥
५१ *श्रीनेमिनाथ-जिनस्तवः शिवगामिन् ! शिवाकुक्षि-शुक्तिमुक्तामणे ! प्रभो ! । शिवानामेकनिलय ! भगवस्त्वं शिवकरः ॥१॥ * मेरौ जन्मस्नात्रावसरे शकसंदृब्धः ।