________________
अध्याय-१]
42 [स्वाध्यायदोहनपुण्योऽयं दिवसः स्वामि-स्त्वदर्शननिबन्धनम् । यत्राऽमलीभविष्यामो, दुःकर्ममलिना वयम् ॥२॥ अंगाऽवयवराजत्वं, प्रत्यपद्यंत नो दृशः यास्त्वदर्शनमासाद्य, सद्योऽधुः शुद्धिमात्मनः ॥३॥ पूतास्त्वत्पादसंपर्काद्-भरतक्षेत्रभूमयः । अपि ताः पापनाशाय, किं पुनस्तव दर्शनम् ॥४॥ मिथ्यादृशामुलूकाना-मिव त्वदर्शनं विभो ! । केवलाऽऽलोकमार्तंड-तिरोभावनिबन्धनम् ॥५॥ त्वदर्शनसुधापान-समुच्छ्वसितवर्मणाम् । अद्य देव ! त्रुटिष्यंति, कर्मबन्धाः शरीरिणाम् ॥ ६ ॥ विवेकदर्पणोन्मार्टि-समुत्पादनकर्मठाः । कल्याणतरुबीजाऽऽभाः, पांतु त्वत्पादपांसवः ॥७॥ स्वामिन् ! पीयूषगंडूष-इव ते देशनावचः । संसारमरुममाना-मस्तु नः स्वास्थ्यहेतवे
॥८॥