________________
त्रिष० पर्व-४-सर्ग-३] 41
[ अध्याय-१भ्रमद्भिमंडलीभूय, कौलाचार्यैर्वृकैरिव । उलूकैरिवपाखंडै-वल्गद्भिरपरैरपि
॥ ३ ॥ सिद्धेनेव विवेकाक्षं, मिथ्यात्वेन विलुपता। सद्भूतानां पदार्थाना-मविज्ञानेन सर्वतः ॥४॥ अभूच्चिरमयं कालो, यामिन्येव जगत्पते ! !। प्रभातं त्वधुना जज्ञे, त्वया नाथेन भास्वता त्वत्पादपद्यामाऽऽसाद्य, लंधिताऽलंधिता खलु । निम्नैरपि हि संसार-निम्नगा निम्नगा जनैः ॥६॥ भवच्छासननिःश्रेणि-मधिरुह्याऽचिरादपि । मन्येऽध्यासितमेवोच्चै-र्लोकाऽयं भव्यजंतुभिः ॥७॥ अस्माकमप्यनाथानां, चिरान्नाथोऽस्युपस्थितः । निदाघाऽऽतपतप्तानां, पांथानामिव वारिदः ॥८॥
*श्री विमलनाथ-जिनस्तवः देव ! त्वदर्शनेनाऽद्य, दुःखं संसारिकं ययौ।
शरीरिणां भुवः पंक-इव वार्षिकवारिणा. * धर्मदेशनभुवि शकेन्द्रकृतः ।
॥१॥