________________
40
महोर्मय इवेतश्च, नानादुः ख परंपराः । इतश्चाऽऽतरौद्रध्यान - मौर्वानल इवोच्चकैः
अध्याय- १ ]
[ स्वाध्याय दोहन
इतश्च ममता वेत्र - वल्लीव स्खलनास्पदम् । इतश्च व्याधयोऽनल्पा, नक्रस्तोमा इवोद्धताः
अस्मिन्नपारे संसारे, पारावारेऽतिदारुणे । पतितानुद्धर चिरात् प्राणिनः परमेश्वर ! परेषामुपकाराय, केवलज्ञानदर्शने । तवेमे त्रिजगन्नाथ !, तरोः पुष्पफले इव कृतार्थमद्य मे जन्म, कृतार्थो विभवोऽद्य मे । कर्तुं लेभे मयाऽयं यत्, त्वत्सपर्या महोत्सवः
३२
*श्री विमलनाथ - जिनस्तवः
मोहेन तिमिरेणेव परितोऽपि प्रसारिणा । नितांतकोपनैर्नक्तं चरैरिव जटाधरैः
बुद्धिसर्वस्वहरणैश्चार्वाकैस्तस्करैरिव । अत्यंतमायानिपुणैर्गोमायुभिरिव द्विजैः
* मेरौ शक्रेन्द्रसंस्तुत: ।
11 8 11
॥ ५॥
॥ ६ ॥
॥ ७ ॥
॥ ८ ॥
॥ १ ॥
॥ २ ॥