________________
त्रिष० पर्व ४-सर्ग ४ ]
43
[ अध्याय-१
*श्री अनंतनाथ-जिनस्तवः तवाऽग्रे भूमिलुठनै-र्ये हि भूरेणुनाऽचिताः । गोशीर्षचंदनेनाऽग-रागस्तेषां न दुर्लभः ॥१॥ भक्त्यैकमपि यैः पुष्पं, त्वन्मूर्धन्यधिरोप्यते । ते छत्राऽशून्यशिरसः, संचरंति निरन्तरम् ॥२॥ अंगरागस्तवांडगे यै-रेकदाऽपि विधीयते । देवदूष्यांऽशुकधरा-स्ते भवंति न संशयः निधीयते भवत्कंठे, पुष्पदामैकदापि यैः । लुठन्ति तेषां कंठेषु, दोलताः सुरयोषिताम् ॥४॥ ये वर्णयन्त्येकदाऽपि, त्वद्गुणानतिनिर्मलान् । ते गीयंते सुरस्त्रीभि-रपि लोकातिशायिनः ॥५॥ ये चारुचारीचतुरं, भक्त्या वल्गंति ते पुरः। ऐरावणकरिस्कंधाऽऽ-सनं तेषां न दुर्लभम् ध्यायंति परमात्मानं, ये त्वां देव ! दिवानिशम् ।
त्वादशीभूय ते लोके, ध्येयतां यांति सर्वदा ॥७॥ * मेरौ शकेन्द्रसंस्तुतः ।