________________
अध्याय-१]
[स्वाध्यायदोहन
२८ .. *श्री श्रेयांसनाथ-जिनस्तवः सर्वकल्याणकश्रेष्ठ, जन्मकल्याणकं तव । विश्राणयतु कल्याणं, कल्याणीभक्तिके मयि ॥१॥ स्नपयाम्यथ चर्चामि, किमर्चामि स्तवीमि किम् ?। त्वामितीश ! न तृप्तिमें, त्वदाऽऽराधनकर्मणि ॥२॥ वृषः कुतीर्थिकव्याघ्र-त्रासितस्त्वयि रक्षके । अमुष्मिन् भरतक्षेत्रे, वैरं चरतु संप्रति अद्य स्वयमधिष्ठाय, हृदयाऽऽयतनं मम । दिष्ट्या देवाधिदेव ! त्वं, सनाथीकुरुषेतराम् ॥४॥ न तथा भूषणं नाथ !, ममैभिर्मुकुटादिभिः । यथा शिरोऽप्रलुठितै-स्त्वत्पादनखरश्मिभिः ॥५॥ न तथा त्रिजगन्नाथ !, स्तूयमानस्य मागधैः। मम प्रमोदो भवति, त्वद्गुणान् स्तुवतो यथा ॥६॥ रत्नसिंहासनस्थस्य, नहि मध्येसभं तथा । उच्चस्त्वं त्वत्पुरो भूमि-निषण्णस्य यथा मम ॥७॥ * मेरौ शकेन्द्रसंदृन्धः।