________________
विष पर्व-२-सर्ग-२-३ ]
17
[ अभ्यास-1
*श्री अजितनाथ-जिनस्तवः जय त्रिभुवनाधीश !, जय विश्वैकवत्सल !। जय पुण्यलतोद्भेद-नवांबुद ! जगत्प्रभो ! ॥ १ ॥ स्वामिन् ! विमानाद्विजया-दवतीर्णोऽसि भूतले।। इदं जगत् प्रीणयितुं, सरिदोघ इवाऽचलात् ॥ २ ॥ बीजं मोक्षद्रमस्येव, ज्ञानत्रितयमुज्जवलम् । स्वामिन्नाऽऽजन्मसिद्धं ते, शीतलत्वमिवांऽभसः ॥ ३ ॥ ये त्वां त्रिभुवनाधीश !, धारयति सदा हृदि । संमुखीनाः श्रियस्तेषा-मादर्शप्रतिबिंबवत् ॥ ४ ॥ उल्बणैर्वाध्यमानानां, कर्मरोगैः शरीरिणाम् । दिष्टया त्वमऽगदंकारः, प्रतीकारकरोऽभवः ॥ ५ ॥ त्वदर्शनसुधासारा-स्वादस्य त्रिजगत्पते ! । मरुपांथा इव चयं, न तृप्यामो मनागपि ॥ ६ ॥
* जन्माऽभिषेकसमये मेरौ शन्द्रसंदृब्धः ।