________________
अध्याय-1]
16 [स्वाध्यायदोहनमोहांऽधकारनिर्मग्र-जगदाऽऽलोकदीपक्रम् । आकाशवदनंतं ते स्वामिन् ! जयति केवलम् ॥ २ ॥ प्रमादनिद्रामन्नानां बाथ! कार्येण मादृशाम् । एवं गताऽऽगतानि त्वं करोष्यर्क इवाऽसकृत् ॥ ३ ॥ जन्मलक्षार्जितं कर्म त्वदालोकाद्विलीयते । कालेन दृषदीभूतमप्याज्यं वह्निना द्रवेत् ॥ ४ ॥ एकांतसुखमातोऽपि साध्वी च सुखदुःखमा । यत्र कल्पद्रुमेभ्यस्त्वं विशिष्टफलदोऽभवः ॥ ५ ॥ समस्तभुवनेशेदं भुवनं भूषितं त्वया । राज्ञा पुरीव ग्रामेभ्यो, भुवनेभ्यः प्रकृष्यते ॥ ६ ॥ पिता माता गुरुः स्वामी यत्सर्वेऽपि न कुर्वते । एकोऽप्यनेकीभूयेव त्वं हितं विदधासि तत् ॥ ७ ॥ निशा निशाकरेणेव हंसेनेव महासरः । वदनं तिलकेनेव शोभते भुवनं त्वया ॥ ८ ॥