________________
त्रिषष्टिः पर्व-१-सर्ग-५] 10
[ अध्याय-१तपस्यतामप्यऽधिकास्त्वां नमस्यति ये सदा । वरिवस्यंति ये तु त्वां, योगिनामपि तेऽधिकाः ॥ २॥ नमस्यतां प्रतिदिनं, विश्वाऽऽलोकदिनेश्वर ! । धन्यानामवतंसंति, त्वत्पादनखरश्मयः ॥३॥ न किंचित्कस्यचित्साम्ना, बलाद्वा गृह्यते त्वया। त्रैलोक्यचक्रवर्ती त्वं, तथाऽप्यसि जगत्पते ! ॥४॥ स्वामिस्त्वमेको जगतां, समं चेतस्सु वर्तसे । पीयूषदीधितिः सर्व-जलाशय-जलेष्विव ॥५॥ त्वां स्तोता स्तूयते देव!, सर्वैस्त्वामर्चिताऽर्च्यते । त्वां नन्ता नम्यते सर्वा, स्वयि भक्तिर्महाफला ॥ ६ ॥ त्वं देव दुःखदावाऽमि-तप्तानामेकवारिदः । मोहांऽधकारमूढानामे-कदीपस्त्वमेव हि रोराणामीश्वराणां च, मूर्खाणां गुणिनामपि । साधारणोपकारी त्वं, छायाद्रुम इवाऽध्वनि ॥८॥
9
-