________________
त्रिषष्टिः पर्व-१-सर्ग-२-] 4
[ अध्याय-१कल्पवृक्ष इवाऽवृक्षे, नदीस्रोतो मराविव । भगवन्नवतीर्णोऽसि, लोकपुण्येन, भारते ॥८॥.
॥१॥
*श्री आदिनाथ-जिनस्तवः नमस्तुभ्यं नगन्नाथ !, त्रैलोक्यांऽभोजभास्कर !। संसारमरकल्पद्रो !, विश्वोद्धरणबांधव ! वंदनीयो मुहूर्तोऽयं, यत्र ते धर्मजन्मनः । अपुनर्जन्मनो जन्म, दुःखच्छिद्विश्वजन्मिनाम् युष्मजन्माऽभिषेकांऽभः-पुरैराप्लाविताऽधुना । अयत्नक्षालितमला, सत्या रत्नप्रभा प्रभो ! मनुष्याः खलु ते धन्या, ये त्वां द्रक्ष्यंत्यहनिशम् । यथा समयमेव त्वां, द्रष्टारः कीदृशा वयम् ?
॥२॥
1
॥३॥
॥४॥
॥५॥
भरतक्षेत्रजंतूनां, मोक्षमार्गोऽखिलः खिलः । त्वया नूतनपांथेन, नाथ ! प्रकटयिष्यते साऽस्तु तावत्तव सुधा–सध्रीची धर्मदेशना ।
त्वदर्शनमपि श्रेयो, विश्राणयति जन्मिनाम् * मेरौ जन्माऽभिषेकस्नात्रादऽनु शक्रेण संस्तुतः ।
॥६॥