________________
180
यदाहन
अध्याय-३ ]
[ स्वाध्यायदोहनभानंदितसुरवरपुन्नाग, नागरमानसहंसं रे । हंसगति पंचमगतिवासं, वासवविहिताशंसं रे ॥४॥ शंसंतपदवचनमनवमं, नवमंगलदातारं रे । तारस्वरमघघनपवमानं, मानसुभटजेतारं रे इत्थं स्तुतः प्रथमतीर्थपतिः प्रमोदाच्छीमद्यशोविजयवाचकपुंगवेन ॥ श्रीपुंडरीकगिरिराजविराजमानो । मानोन्मुखानि वितनोतु सतां सुखानि
(२) श्रीमरुदेवातनुजन्मानं, मानवरत्नमुदारं रे । दारैस्सह हरिभिः कृतसेवं, सेवकजनसुखकारं रे ॥१॥ कारणगंधमृतेऽपि जनानां, नानासुखदातारं रे । तारस्वररसजितपरपुष्टं, पुष्टशमाकूपारं रे ॥२॥ पारंगतमिह जन्मपयोधे, योधेहितगुणधीरं रे। धीरसमूहस्संस्तुतचरणं, चरणमहीरुहकीरं रे कीरनसं यशसा जितचंद्र, चंद्रामलगुणवासं रे। वासवह्रदयकजाहिमपादं, पादपमिवसच्छायं रे ॥४॥