________________
अध्याय-३] 176 [स्वाध्यायदोहनत्वत्पादपद्मद्वितयं जिनेन्द्र !, स्फुरत्यजस्रं हृदि यस्य पुंसः । विश्वत्रयीश्रीरपि नूनमेति तत्राश्रयार्थ सहचारिणीव ॥२५ ॥ अहं प्रभो ! निर्गुणचक्रवर्ती, क्रूरो दुरात्मा हतकः सपाप्मा । ही दुःखराशौ भववारिराशौ, यस्मानिमग्नोऽस्मि भवद्विमुक्तः॥२६॥ स्वामिन्निमग्नोऽस्मि सुधासमुद्रे, यन्नेत्रपात्रातिथिरद्य मेऽभूः। चिन्तामणौ स्फूर्जति पाणिपने, पुंसामसाध्यो न हि कश्चिदर्थः ॥२७॥ त्वमेव संसारमहाम्बुराशौ, निमजतो मे जिन ! यानपात्रम् । त्वमेव मे श्रेष्ठसुखैकधाम, विमुक्तिरामाघटनाभिरामः ॥२८॥ चिन्तामणिस्तस्य जिनेश ! पाणौ, कल्पद्रुमस्तस्य गृहाङ्गणस्थः । नमस्कृतो येन सदापि भक्त्या, स्तोत्रैः स्तुतो दामभिरर्चितोऽसि २९ निमील्य नेत्रे मनसः स्थिरत्वं, विधाय यावजिन ! चिन्तयामि । त्वमेव तावन्न परोऽस्ति देवो, निःशेषकर्मक्षयहेतुरत्र ॥ ३० ॥
भक्त्या स्तुता अपि परे परया परेभ्यो, मुक्ति जिनेन्द्र ! ददते न कथञ्चनापि । सिक्ताः सुधारसघटैरपि निम्बवृक्षा, विश्राणयन्ति नहि चूतफलं कदाचित् ॥३१ ।।
भवजलनदिमध्यान्नाथ ! निस्तार्य कार्यः, शिवनगरकुटुम्बी निर्गुणोऽपि त्वयाऽहम् ।