________________
साधारणजिनस्तवनम् ]
177
[ अध्याय-३
नहि गुणमगुणं वा संश्रितानां महान्तो, निरुपमकरुणाः सर्वथा चिन्तयन्ति ॥३२॥ प्राप्तस्त्वं बहुभिः शुभैत्रिजगतश्चडामणिदेवता, निर्वाणप्रतिभूरसावपि गुरुः श्रीहेमचंद्रप्रभुः।। तन्नातः परमस्ति वस्तु किमपि स्वामिन् ? यदभ्यर्थये, किन्तु त्वद्वचनादरः प्रतिभवम् स्ताद्वर्द्धमानो मम ॥ ३३॥
श्री लोडणपार्श्वनाथ-जिनस्तवः
प्रभुलोडणपार्श्वजिनं सुकरं, भवपापतमोभरदूरकरम् । सततं जनसंततिशांतिकरं, जनतार्चितसुंदरपादधरम् ॥१॥ भविकाम्बुजवारविबोधकरं, नमतां नरनिर्जरदुःखहरम् । भवतां गुणकाननवारिभरं, भववारिधिपोतसमं सुचिरम् ॥२॥ जगतां जनसंततिजन्महरं, सकलं शिवदं सुखवारकरम् । यशसा किल निर्जितशीतकर, जितमन्मथमानमनंतकरम् ॥३॥ जयकारीयशोधनधीप्रवरं, भवभीममहोदधिभीतिहरम् । दशनच्छवितर्जितपद्मवरं, मनुजेप्सीतकार्यविधानपरम् ॥४॥ १२