________________
अध्याय-३ ]
174 [स्वाध्यायदोहनलब्धोऽसि स त्वं मयका महात्मा, भवाम्बुधौ बंभ्रमता कथंचित् । आः पापपिण्डेन नतो न भक्त्या, न पूजितो नाथ ! नतु स्तुतोऽसि॥७॥ संसारचक्रे भ्रमयन कुबोधदण्डेन मां कर्ममहाकुलालः । करोति दुःखप्रचयस्थभाण्डम् , ततः प्रभो ! रक्ष जगच्छरण्य ! ॥८॥ कदा त्वदाज्ञाकरणाप्ततत्त्वस्त्यक्त्वा ममत्वादि भवैककन्दम् । आत्मैक सारो निरपेक्षवृत्तिर्मोक्षेऽप्यनिच्छों भवितास्मि नाथ ! ॥९॥ तव त्रियामापतिकान्तिकान्तैर्गुणैर्नियम्यात्ममनःप्लवङ्गम् । कदा त्वदाज्ञाऽमृतपानलोलः, स्वामिन् ! परब्रह्मरतिं करिष्ये ॥१०॥ एतावती भूमिमहं त्वदंहिपद्मप्रसादाद्गतवानधीश । हठेन पापास्तदपि स्मराद्या, ही मामकार्येषु नियोजयन्ति ।। ११॥ भद्रं न किं त्वय्यपि नाथ ! नाथे, सम्भाव्यते मे यदपि स्मराद्याः । अपाक्रियन्ते शुभभावनाभिः,पष्ठिं न मुञ्चन्ति तथापि पापाः॥१२॥ भवाम्बुराशौ भ्रमतः कदापि, मन्ये न मे लोवनगोचरोऽभूः । निस्सीमसीमन्तकनारकादिदुःखातिथित्वं कथमन्यथेश ! ॥ १३ ॥ चक्रासिचापाङ्कुशवज्रमुख्यैः, सल्लक्षणैर्लक्षितमंहियुग्मम् । नाथ ! त्वदीयं शरणं गतोऽस्मि, दुरिमोहादिविपक्षभीतः ॥१४॥ अगण्यकारुण्य ! शरण्य ! पुण्य ! सर्वज्ञ ! निष्कन्टक ! विश्वनाथ !। दीनं हताशं शरणागतं च, मां रक्ष रक्ष स्मरभिल्लभल्लेः ॥ १५ ॥