________________
गूर्जरसम्राट श्रीकुमारपालविरचितं
साधारण जिनस्तवनम् ।
नम्राखिलाखण्डलमौलिरत्नरश्मिच्छटापल्लवितांहिपीठ !। विध्वस्तविश्वव्यसनप्रबन्ध ! त्रिलोकबन्धो! जयताजिनेन्द्र ! ॥१॥
मूढोऽस्म्यहं विज्ञपयामि यत्त्वामपेतरागं भगवन् ! कृतार्थम् । नहि प्रभुणामुचितस्वरूपनिरूपणाय क्षमतेऽर्थिवर्गः ॥२॥
मुक्तिं गतोऽपीश ! विशुद्धचित्ते गुणाधिरोपेण ममासि साक्षात् । भानुदेवीयानपि दर्पणेऽशुसङ्गान्न किं द्योतयते गृहान्तः ? ॥ ३ ॥
तवस्तवेन क्षयमङ्गभाजां भजन्ति जन्मार्जितपातकानि । कियच्चिरं चण्डरुचेमरीचिस्तोमे तमांसि स्थितिमुद्वहन्ति ॥ ४ ॥
शरण्य ! कारुण्यपरः परेषां, निहंसि मोहज्वरमाश्रितानाम् । मम त्वदाज्ञां वहतोऽपि मूनों, शान्ति न यात्येष कुतोऽपि हेतोः॥५॥
भवाटवीलचन्नसार्थवाह, त्वामाश्रितो मुक्तिमहं यियासुः । कषायचौरैर्जिन ! लुप्यमानं रत्नत्रयं मे तदुपेक्षसे किम् ? ॥६॥