________________
अध्याय-३ ]
172 [ स्वाध्यायदोहनया सिद्धयोऽष्टावपि दुर्लभा ये, रसायनं चाञ्जनधातुवादाः । ध्यानानि मन्त्राश्च समाधियोगाश्चित्तेऽप्रसन्ने विषवद् भवन्ति॥३०॥ विन्दन्ति तत्त्वं न यथास्थितं वै, सङ्कल्पचिन्ताविषयाकुला ये । संसारदुःखैश्च कदर्थितानाम् , स्वप्नेऽपि तेषां न समाधिसौख्यम् ॥३१ श्लोको वरं परमतत्त्वपथप्रकाशी, न ग्रन्थकोटिपठनं जनरञ्जनाय । सञ्जीवनीति वरमौषधमेकमेव, व्यर्थः श्रमप्रजननो नतु मूलभारः।।३२ तावत् सुखेच्छा विषयादिभोगे, यावन्मनः स्वास्थ्यसुखं न वेत्ति । लब्धे मनः स्वास्थ्यसुखैकलेशे, त्रैलोक्यराज्येऽपि न तस्य वाञ्छा॥३३ न देवराजस्य न चक्रवर्तिनस्तद्वै सुखं रागयुतस्य मन्ये । यद्वीतरागस्य मुनेः सदात्मनिष्ठस्य चित्ते स्थिरतां प्रयाति ॥ ३४ ।। यथा यथा कार्यशताकुलं वै, कुत्रापि नो विश्रमतीह चित्तम् । तथा तथा तत्त्वमिदं दुरापं, हृदि स्थितं सारविचारहीनैः ॥ ३५ ॥
शमसुखरसलेशात् द्वेष्यतां संप्रयाता, विविधविषयभोगात्यन्तवाञ्छाविशेषाः । परमसुखमिदं यद् भुज्यतेऽन्तःसमाधौ, मनसि यदि तदा ते शिष्यते किं वदान्यत् ॥ ३६ ॥