________________
श्री हृदयप्रदीपषट्त्रिंशिका] 171
[ अध्याय-३ये निःस्पृहास्त्यक्तसमस्तरागास्तत्त्वैकनिष्ठा गलिताभिमानाः । सन्तोषपोषैकविलीनवाञ्छास्ते, रञ्जयन्ति स्वमनो न लोकम् ।।२२।। तावद्विवादी जनरञ्जकश्च, यावन्न चैवात्मरसे सुखज्ञः । चिन्तामणिं प्राप्य वरं हि लोके, जने जने कः कथयन् प्रयाति ? ॥२३॥ षण्णां विरोधोऽपि च दर्शनानाम् , तथैव तेषां शतशश्च भेदाः । नानापथे सर्वजनः प्रवृत्तः, को लोकमाराधयितुं समर्थः ।। २४ ॥ तदेव राज्यं हि धनं तदेव, तपस्तदेवेह कला च सैव ।। स्वस्थे भवेच्छीलताऽऽशये चेन्नो चेद्वृथा सर्वमिदं हि मन्ये ॥२५॥ रुष्टैर्जनैः किं यदि चित्तशान्तिस्तुष्टैर्जनैः कि यदि चित्तप्तापः । प्रीणाति नो नैव दुनोति चान्यान् , स्वस्थः सदोदासपरो हि योगी२६
एकःपापात् पतति नरके, याति पुण्यात् स्वरेकः, पुण्यापुण्यप्रचयविगमात् , मोक्षमेकः प्रयाति । संगान्ननं न भवति सुखं, न द्वितीयेन कार्यम् ,
तस्मादेको विचरति सदानन्दसौख्येन पूर्णः ।। २७ ।। त्रैलोक्यमेतद् बहुभिर्जितं यैर्मनोजये तेऽपि यतो न शक्ताः । मनोजयस्यात्र पुरो हि तस्मात्, तृणं त्रिलोकी विजयं वदन्ति॥२८॥ मनोलयान्नास्ति परो हि योगो, ज्ञानं तु तत्त्वार्थविचारणाच्च । समाधिसौख्यान परं च सौख्यम् , संसारसारं त्रयमेतदेव ॥२९॥