________________
अध्याय-३-]
170
[ स्वाध्यायदोहन
यस्मिन् कृते कर्मणि सौख्यलेशो, दुःखानुबंधस्य तथास्ति नान्तः । मनोऽभितापो मरणं हि यावत् , मूर्योऽपि कुर्यात् खलु तन्न कर्म।१३। यदर्जितं वै वयसाऽखिलेन, ध्यानं तपो ज्ञानमुखं च सत्यम् । क्षणेन सर्वं प्रदहत्यहो तत् , कामो बली प्राप्य बलं(छलं?)यतीनाम् १४ बलादसौ मोहरिपुर्जनानां, ज्ञानं विवेकं च निराकरोति । मोहाभिभूतं हि जगद्विनष्टं, तत्त्वावबोधादपयाति मोहः ॥ १५ ॥ सर्वत्र सर्वस्य सदा प्रवृत्तिर्दुःखस्य नाशाय सुखस्य हेतोः । तथापि दुखं न विनाशमेति, सुखं न कस्यापि भजेत् स्थिरत्वम्॥१६॥ यत् कृत्रिमं वैषयिकादि सौख्यम् , भ्रमन् भवे को न लभेत मर्त्यः । सर्वेषु तच्चाधममध्यमेषु, यदृश्यते तत्र किमद्भुतं च ॥ १७ ॥ क्षुधातृषाकामविकाररोषहेतुश्च तद् भेषजवद्वदन्ति । तदस्वतन्त्रं क्षणिक प्रयासकृत् , यतीश्वरा दूरतरं त्यजन्ति ।। १८ ॥ गृहीतलिङ्गस्य च चेद्धनाशा, गृहीतलिङ्गो विषयाभिलाषी । गृहीतलिङ्गो रसलोलुपश्चेद्, विडम्बनं नास्ति ततोऽधिकं हि ॥१९॥ ये लुब्धचित्ता विषयार्थभोगे, बहिर्विरागा हृदि बद्धरागाः । ते दाम्भिका वेषधराश्च धूर्ताः, मनांसि लोकस्य तु रञ्जयन्ति ॥२०॥ मुग्धश्च लोकोऽपि हि यत्र मार्गे, निवेशितस्तत्र रतिं करोति । धूर्तस्य वाक्यैः परिमोहिताना, केषां न चित्तं भ्रमतीहलोके ॥२१॥