________________
श्री हृदयप्रदीपषत्रिंशिका] 169
[ अध्याय-३विग्रहं कृमिनिकायसङ्कलं, दुःखदं हृदि विवेचयन्ति ये। गुप्तिबन्धमिव चेतनं हि ते, मोचयन्ति तनुयन्त्रयन्त्रितम् ॥ ४ ॥ भोगार्थमेतद् भविनां शरीरम् , ज्ञानार्थमेतत् किल योगिनां वै । जाता विषं चेद्विषया हि सम्यग , ज्ञानात्ततः किं कुणपस्य पुष्ट्या ? त्वङ्मांसमेदोऽस्थिपुरीपमूत्रपूर्णेऽनुरागः कुणपे कथं ते ? । दृष्टा च वक्ता च विवेकरूपस्त्वमेव साक्षात् किमु मुह्यसीत्थम् ॥६॥ धनं न केषां निधनं गतं वै, दरिद्रिणः के धनिनो न दृष्टाः । दुखैकहेतुनि धनेऽतितृष्णां, त्यक्त्वा सुखी स्यादिति मे विचारः ॥७॥ संसारदुःखान्न परोऽस्ति रोगः, सम्यग्विचारात् परमौषधं न । तद्रोगदुःखस्य विनाशनाय, सच्छास्त्रतोयं क्रियते विचारः ॥८॥ अनित्यताया यदि चेत् प्रतीतिस्तत्त्वस्य निष्ठा च गुरुप्रसादात् । सुखी हि सर्वत्र जने वने च, नो चेद्वने चाथ जनेषु दुःखी ॥९॥ मोहान्धकारे भ्रमतीह तावत् , संसारदुःखैश्च कदर्यमानः ! यावद्विवेकार्कमहोदयेन,यथास्थितं पश्यति नात्मरूपम् ॥ १० ॥ अर्थो ह्यनर्थो बहुधा मतोऽयम् , स्त्रीणां चरित्राणि शबोपमानि । विषेण तुल्या विषयाश्च तेषां, येषां हृदि स्वात्मलयानुभूतिः ॥११॥ कार्य च किं ते परदोषदृष्ट्या, कार्य च किं ते परचिन्तया च । वृथा कथं खिद्यसि बालबुद्धे !, कुरू स्वकार्य त्यज सर्वमन्यत् ॥१२॥