________________
अध्याय-३ ]
158 [स्वाध्यायदोहनये त्वया स्थापिता दुःखे, सांस्तान् क्षमयाऽधुना। क्षाम्यस्व त्वमपि तेषां, मैत्रीभावमुपागतः ॥८॥ जीवितं यौवनं लक्ष्मी, रूपं प्रियसमागमः। चलं सर्वमिदं वात्यानर्तिताऽब्धितरङ्गवत् ॥ ९ ॥ व्याधि-जन्म-जरा-मृत्यु-ग्रस्तानां प्राणिनामिह ।। विना जिनोदितं धर्म, शरणं कोऽपि नाऽपरः ॥ १० ॥ सर्वेऽपि जीवाः स्वजना, जाताः परजनाश्च ते । विदधीत प्रतिबन्धं, तेषु को हि मनागपि ? ॥ ११ ॥ एक उत्पद्यते जन्तुरेक एव विपद्यते । सुखान्यनुभवत्येको दुःखान्यपि स एव हि ॥ १२ ॥ अन्यद् वपुरिदं यावदन्यद् धान्य-धनादिकम् ।। बन्धवोऽन्ये च जीवोऽन्यो, वृथा मुह्यति बालिशः ॥१३॥ वसा-रुधिर-मांसा-ऽस्थि-यकृद्-विण-मूत्रपूरिते । वपुष्यशुचिनिलये, मूच्छी कुर्वीत कः सुधी? ॥ १४ ॥ अवक्रयाऽऽत्तवेश्मेव, मोक्तव्यमचिरादपि । लालितं पालितं वाऽपि, विनश्वरमिदं वपुः ॥१५॥ धीरेण कातरेणाऽपि, मर्तव्यं खलु देहिना । तन्नियेत तथा धीमान्न म्रियेत यथा पुनः ॥ १६ ॥