________________
श्री पार्श्वनाथ च०] 153
[ अध्याय-३अचक्षु-श्चक्षु-रवधि-केवलं दर्शनावृति । निद्रा पञ्चेति नवधा, दर्शनावरणं भवेत् ॥४॥ कषायाः षोडशभिदास्त्रिके मिथ्यात्व-वेदयोः। हास्यादिषट्कं मोहः स्यादऽष्टाविंशतिनिर्मितः ॥५॥ सुखे दुःखे द्विधा वेद्यमायुः कर्म चतुर्विधम् । तिर्यग्-नारक-गीर्वाण--मनुष्यगतिभेदतः ॥६॥ अप्यनेकविधं नाम, शुभाशुभविभेदतः। द्विविधं गोत्रमप्युच्चै-र्नीच्चैर्भेदाद् द्विधा भवेत् ॥ ७ ॥ दान-लाभयोर्वीर्यस्य, तथा भोगोपभोगयोः । प्रत्यूहकरणात् पञ्चविधं कर्मान्तरायकम् ॥८॥ प्रतिकूलतया द्वेषादन्तरायादपह्नवात् । ज्ञान-दर्शनयोर्जीवो, बध्नात्यावरणद्वयम् अनुकम्पा-व्रतोद्योग-गुरुभक्ति--क्षमादिभिः । सुवेद्यं बध्यते कर्म, दुःखवेद्यं तथेतरैः ॥ १० ॥ सर्वज्ञगुरुसङ्घादौ, प्रत्यनीकतया भृशम् । दर्शनमोहनीयं स्यादनन्तभवकारकम् ॥ ११ ॥ राग-द्वेष--महामोहयुतस्तीव्रकषायभृत् । देश--सर्वचरित्राख्यमोहनीयस्य बन्धकः ॥ १२॥ ...