SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ अध्याय-३ ] 152 [ स्वाध्यायदोहन I विकल्पकल्पना लोलकल्लोलैर्नाथ ! रक्ष मे । धूयमानं मनःपोतं, यत्तरामि भवाम्बुधिम् ॥ १३ ॥ वपुः शस्तं प्रसन्ना दृग्, जन्तुरक्षाकरं वचः । अतस्त्वयि कथं नाथ !, सतां न रमते मनः ? ॥ १४ ॥ भ्रमन्तु भावाः प्रस्तावादितरे तारका इव । सर्वज्ञ ! तव तत्त्वाद्रौ, ध्रुवीयति मनस्तु मे ॥ १५ ॥ अलं परि है रम्यैरपि क्लेशकरैः प्रभो ! । सदानन्दमयं देहि, भावदेव ! प्रियं पदम् * श्री अष्टविधकर्म स्वरूपम् । इह प्रकृत्या स्वच्छोsपि, जीवः कर्ममलावृतः । लभते विविधं दुःखं, भ्राम्यन् गतिचतुष्टये तच्च कर्माऽष्टधा ज्ञानदर्शनावरणे तथा । मोहनीयं वेद्यमायुर्नामगोत्राऽन्तरायकम् मतिश्रुतावधिमनःपर्यायं केवलात्मकम् । ज्ञानं पञ्चविधं तस्याssवरणं चापि पञ्चधा * श्री लोकचन्द्राख्यसूरि-देशनायाम्, ॥ १६ ॥ ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy