________________
श्री पार्श्वनाथ च० ] 151
[ अध्याय-३सद्गन्धशीतलस्वच्छौ नत्वा पादौ तव स्तवम् । कृत्वा श्रुत्वा च नाथ ! स्यादऽक्षाणां युगपत् सुखम् ॥४॥ त्रिलोकीसुभगं वीक्ष्य, त्वां चलाया अपि प्रभो!। स्तम्भस्वेदाताभावो, जायते कस्य नो दृशः ? ॥५॥ शमाई ! सुकृताऽऽराम ! भवभ्रान्तिभवं मम । त्वत्पादपादपच्छाया, तापं निर्वापयेत् चिरात् ॥६॥ तच्चित्रं यनिरालम्ब, चिरं भ्रान्तं भवार्णवे । त्वां चालम्ब्य मनो मे ऽद्य, शमनीरे ममज यत् ॥ ७ ॥ धमकोशाद् धनं दत्ते, सेवकेभ्यः प्रभुभवान् । प्रसन्नः समतावस्तु, कस्मैचन पुनर्निजम् ॥८॥ तथा मम जगन्नाथ ! प्रसीद नतवत्सल !। यथा क्षणमपि स्वामिन् , नैवोत्तरसि चेतसः ॥९॥ सर्वोऽपि वदति श्राद्धो, यत्त्वं मे नाथ जीवितम् । नाहं तु जीवितं येन, चलं मे त्वं तु निश्चलः ॥१०॥ न कुले न बले रूपे, न च न श्रीषु ते विभोः ।। यत् किंचिद् वीतरागत्वं, तत्र लीनं मनो मम ॥ ११ ॥ नानानामानि संकल्प्य, विवदन्तां विचक्षणाः। मन्दमेधास्त्वहं नाथ ! नीरागत्वे तव स्थितः ॥ १२ ॥