________________
अध्याय-३ ]
150 [स्वाध्यायदोहनज्ञानदर्शनचारित्रतपःसमितिगुप्तिषु । यः क्रियासु रतो नित्यं, स विज्ञेयः क्रियारुचिः ॥ ३४ ॥ आज्ञाप्रवचने जैने, कुदृष्टावनभिग्रहः। यः स्याद् भद्रकभावेन, तं संक्षेपरुचिं विदुः ॥ ३५ ॥ यो धर्म श्रुतचारित्राऽस्तिकायविषयं खलु । श्रद्दधाति जिनाख्यातं, स धर्मरुचिरिष्यते ॥३६ ॥ इत्येवं सर्वभेदानां, मानसं मूलकारणम् । तस्मात् तदेव कर्तव्यमेकतानं मनीषिणा ॥३७॥
*श्री युगादि जिन-स्तवः जय त्रिभुवनाधीश !, श्री युगादिजिनेश्वर ! । नम्रामरशिरोरत्नदीपनीराजितक्रम ! अज्ञानतिमिरं हत्वा, नवभानुरिव प्रभो ! । प्रकाशितजगद्विद्याव्यवहार ! नमोऽस्तु ते
॥२॥ निष्कषायतया चेतःपटे शुभ्रगुणे तव ।। रागो लगतु मा किंतु, तेनाऽरञ्जि कथं जगत् ? ॥ ३ ॥
* श्री ललिताङ्गकुमारेण सन्डब्धः,