________________
श्री पार्श्वनाथ च०] 149 [ अध्याय-३
वृद्धिमायाति सद्धर्मः, स्तोकोऽपि वटबीजवत् । परं कृपणवत् कोऽपि, न ग्रन्थफलमश्नुते ॥ २५ ॥ निसर्गरुचिमुख्याश्च, कथ्यन्ते दशधा श्रुते । तारतम्यविभागेन, सर्वे सम्यक्त्वधारिणः ॥ २६ ॥ तथाहि-द्रव्यक्षेत्रादिभावा ये, जिनैःख्यातास्तथैव यः। श्रद्धत्ते स्वयमेवैतान , स निसर्गरुचिःस्मृतः ॥ २७ ॥ यः परेणोपदिष्टांस्तु, च्छद्मस्थेन जिनेन वा । तानेव मन्यते भावानुपदेशरुचिः स वै ॥ २८ ॥ रागो द्वेषश्च मोहश्च, यस्याऽज्ञानं क्षयं गतम् । तस्याज्ञायां रुचिं कुर्वन् , इहाज्ञारुचिरिष्यते ॥ २९ ॥ अधीयानः श्रुतं तेन, सम्यक्त्वमवगाहते । अङ्गाऽनङ्गप्रविष्टेन, यः स सूत्ररुचिः स्मृतः ॥ ३० ॥ स बीजरुचिरासाद्य, पदमेकमनेकधा। योऽध्यापयति सम्यक्त्वे, तैलबिन्दुमिवोदके ॥३१॥ श्रीसर्वज्ञागमो येन, दृष्टः स्पष्टार्थतोऽखिलः । आगमज्ञैरभिगमरुचिरेषोऽभिधीयते ॥ ३२ ॥ द्रव्याणां निखिला भावाः, प्रमाणैरखिलैनयैः। उपलम्भं गता यस्य, स विस्ताररुचिर्मतः ॥ ३३ ॥