________________
अध्याय
अध्याय-३-] 148 [स्वाध्यायदोहन
मूलमन्त्रं विना सिद्धिर्मालामन्त्रेण नो यथा । भूयोभिरपि नो कृच्छैस्तथा धर्भो दयां विना ॥ १६ ॥ तद्धेयं मनसा, तच्च वाच्यं वाचा मनिषिभिः । चेष्टितव्यं तदङ्गेन, येन कोऽपि न पीड्यते ॥ १७ ॥ यथाऽऽत्मनः प्रियं वाञ्छेत् , ततः कुर्वीत तत् परे । बुभुक्षुः शालिधान्यं यः, क्षेत्रेऽपि वपते स तत् ॥ १८ ॥ अहिंसैव परो धर्मः, शेषस्तु व्रतविस्तरः। अस्यैव परिरक्षायै, पादपस्य यथा वृतिः ॥१९॥ इति तत्त्वत्रयीरूपं, शमप्रमुखलक्षणैः। लक्षितं पञ्चभिर्धर्मस्थैर्याद्यैर्भूषितं पुनः ॥२०॥ सम्यक्त्वरत्नं यत्नेन, धार्य चित्तकरण्डके । रक्ष्यं शङ्कादिचौरेभ्यः, सहगामि भवाऽन्तरे ॥ २१ ॥ इतरोऽपीह नो मन्त्रो, नृणां सिद्ध्यति शङ्कया। सम्यक्त्वाऽऽख्य महामन्त्रः, किमु शाश्वतसौख्यदः॥२२॥ चारित्रयाने भन्नेऽपि, गुणमाणिक्यपूरिते । तरत्येव भवाऽम्भोधि, सम्यक्त्वफलकग्रहात् ॥ २३ ॥ तमोग्रस्तस्य सामस्त्याद् , जीवेन्दोर्यदि जायते । सञ्चैतन्यकला काऽपि, व्यक्ता मुक्तिस्ततो ध्रुवम् ॥२४॥