________________
श्री पार्श्वनाथ च०] 147
[ अध्याय-३विश्वं विश्वमऽपि व्याप्तं, रागद्वेषादिभिर्भशम् । निःशेषा यस्य ते क्षीणा, वीतरागः स देवता ॥७॥ शान्तचित्तवचस्काये, सर्वसत्त्वोपकारिणि । वीतरागे विसंवादः, सहृदां हृदये कुतः ? ॥८॥ दुःखगर्भ सुखं रागे, निरागत्वे निरन्तरम् । तत् पुनः प्राप्यते देववीतरागप्रसादतः यादक संसेव्यते स्वामी, लेश्या भवति तादृशी ।। वीतरागे ह्यऽतो नाथे, नीरागं जायते मनः ॥१०॥ स्वपरोत्तारणे काष्ठयानतुल्यो भवाम्बुधौ । संविग्नः स्याद् गुरुर्धारः, सदा सदुपदेशकः ॥ ११ ॥ अन्तःपरिग्रहो रागो, बहिस्त्वऽनुचितोपधिः । स द्विधाऽप्युज्झितो येन, स महात्मा गुरुर्गुरुः ॥ १२ ॥ लोकेऽपि वन्द्यते त्यक्तबहिरन्तःपरिग्रहः । अत्र निस्तुषरागाणामक्षतानां निदर्शनम् ॥ १३ ॥ अश्रीदोऽपि गुरुः सेव्यश्चित्तक्लेशोपशान्तये । अफलोऽपि तरुस्तापं, हरते मार्गयायिनाम् ॥१४॥ धर्मतत्त्वं त्विदं ज्ञेयं, भुवनत्रयसम्मतम् । यद्दया सर्वभूतेषु, त्रसेषु स्थावरेषु च ॥ १५ ॥