________________
उपमितिः कथा ] 143 [ अध्याय-३
आरूढमियती कोटी तव किङ्करतां गतम् । मामप्येतेऽनुधावन्ति किमद्यापि परीषहाः ॥२७॥ किं चामी प्रणताशेषजनवीर्यविधायक !। उपसर्गा ममाद्यापि, पृष्ठं मुञ्चन्ति नो खलाः ॥ २८ ॥ पश्यन्नपि जगत्सर्व, नाथ ! मां पुरतः स्थितम् । कषायारातिवर्गेण किं न पश्यसि पीडितम् ॥ २९ ॥ कषायाभिद्रुतं वीक्ष्य, मां हि कारूणिकस्य ते ! विमोचने समर्थस्य नोपेक्षा नाथ ! युज्यते ॥ ३० ॥ विलोकिते महाभाग ! त्वयि संसारपारगे। आसितुं क्षणमप्येकं संसारे नास्ति मे रतिः ॥ ३१ ॥ किं तु किं करवाणीह नाथ ! मामेष दारुणः । आन्तरो रिपुसङ्घातः प्रतिबध्नाति सत्वरम् ॥ ३२ ॥ विधाय मयि कारूण्यं, तदेनं विनिवारय । उद्दामलीलया नाथ ! येनाऽऽगच्छामि तेऽन्तिके ॥ ३३ ॥ तवायत्तो भवो धीर ! भवोत्तारोऽपि ते वशः । एवं व्यवस्थिते किं वा स्थीयते परमेश्वर ! ॥३४॥