________________
अध्याय-३-] 142 [स्वाध्यायदोहन
मञ्जरीराजिते नाथ ! सच्चूते कलकोकिलः । यथा दृष्टे भवत्येव लसत्कलकलाकुलः ॥ १९ ॥ तथैष सरसानन्दबिन्दुसन्दोहदायक !। . त्वयि दृष्टे भवत्येवं मूर्योऽपि मुखरो जनः ॥२०॥ तदेनं माऽवमन्येथा नाथाऽसंबद्धभाषिणम् । मत्वा जनं जगज्येष्ठ ! सन्तो हि नतवत्सलाः ॥ २१ ॥ किं बालोऽलीकवाचाल आलजालं लपन्नपि । न जायते जगन्नाथ ! पितुरानन्दवर्धनः ॥२२॥
12
तथाऽश्लीलाक्षरोल्लापजल्पाकोऽयं जनस्तव । किं विवर्धयते नाथ ! तोषं किं नेति कथ्यताम् ॥ २३ ॥ अनाद्यभ्यासयोगेन विषयाऽशुचिकर्दमे । गर्ने सूकरसंकाशं, याति मे चटुलं मनः ॥२४ ॥ न चाहं नाथ ! शक्नोमि तनिवारयितुं चलम् । अतः प्रसीद तद्देव ! देव ! वारय वारय ॥२५॥ किं ममापि विकल्पोऽस्ति, नाथ ! तावकशासने । येनैवं लपतोऽधीश नोत्तरं मम दीयते ॥२६॥