________________
उपमिति० कथा ] 141
[ अध्याय-1स्फुटं च जगदालम्ब ! नाथेदं ते निवेद्यते। नास्तीह शरणं लोके, भगवन्तं विमुच्य मे ॥ ११ ॥ त्वं माता त्वं पिता बन्धु स्त्वं स्वामी त्वं च मे गुरुः । त्वमेव जगदानन्द !, जीवितं जीवितेश्वर ! ॥ १२ ॥
10
त्वयावधीरितो नाथ ! मीनवजलवर्जिते । . निराशो दैन्यमालम्ब्य, म्रियेऽहं जगतीतले ॥१३ ॥ स्वसंवेदनसिद्धं मे, निश्चलं त्वयि मानसम् । साक्षाद्भूतान्यभावस्य यद्वा किं ते निवेद्यताम् ॥ १४ ॥ मञ्चितं पद्मवन्नाथ !, दृष्टे भुवनभास्करे ! त्वयीहविकसंत्येव विदलत्कर्मकोशकम् ॥ १५ ॥ अनन्तजन्तुसन्तानव्यापाराक्षणिकस्य ते । ममोपरिजगन्नाथ !, न जाने कीदृशी दया ॥ १६ ॥ समुन्नते जगन्नाथ ! त्वयि सद्धर्मनीरदे ॥ नृत्यत्येष मयूगऽऽभो मदोर्दण्डशिखण्डिकः ॥१७ ॥ तदस्य किमियं भक्तिः किमुन्मादोऽयमीहशः दीयतां वचनं नाथ ! कृपया मे निबेद्यताम् ॥१८॥
11