________________
अध्याय-३ ]
140
[स्वाध्यायदोहन
6
आपन्नशरणे दीने, करुणामृतसागर! न युक्तमीदृशं कर्तुं, जने नाथ! भवादृशाम् भीमेऽहं भवकान्तारे, मृगशावकसन्निभः । विमुक्तो भवता नाथ !, किमेकाकी दयालुना ॥४॥ इतश्चेतश्च निक्षिप्तचक्षुस्तरलतारकः । निरालम्बो भयेनैव, विनश्येऽहं त्वयाविना अनन्तवीर्यसम्भार !, जगदालम्बदायक ! विधेहि निर्भयं नाथ !, मामुत्तार्य भवाटवीम् ॥६॥ न भास्करादृते नाथ !, कमलाकरबोधनम् । यथा तथा जगन्नेत्र !, त्वदृते नास्ति निर्वृतिः ॥ ७ ॥ किमेष कर्मणां दोषः, किं ममैव दुरात्मनः । किं वास्य हतकालस्य, किं वा मे नास्ति भव्यता ॥ ८ ॥ किं वा सद्भक्तिनिर्ग्राह्य !, सद्भक्तिस्त्वयि तादृशी । निश्चलाद्यापि संपन्ना, न मे भूवनभूषण ! ॥९॥ लीलादलितनिःशेषकर्मजालकृपापर !। मुक्तिमर्थयते नाथ !, येनाद्यापि न दीयते ॥१०॥