________________
उपमितिभव प्र० कथा ] 139
[ अध्याय-३. अनन्तवीर्यः सर्वज्ञो, वीतरागस्त्वमञ्जसा । न भासि यदभव्यानां तत्तेषां पापजृम्भितम् ॥ १३ ॥ रागद्वेषमहामोहसूचकैर्वीतकल्मष !। हास्यहेतिविलासाक्षमालाथै हनि ! ते नमः ॥ १४ ॥ अनन्तगुणसंपूर्ण ! कियद्वात्र वदिष्यति ।। तावकस्तवने नाथ जडबुद्धिरयं जनः ॥ १५ ॥ तथापि गाढसद्भावबद्धोऽत्यर्थमयं जनः ।.. सद्भावोऽप्यथवा नाथ भवतैवावबुध्यते ॥ १६ ॥ तदस्य करुणां कृत्वा विधातव्या भवे भवे । भवोच्छेदकरी नाथ भक्तिरात्मनि निश्चला ॥१७॥
*श्री परमात्म-स्तवनम् अपार घोरसंसारनिममजनतारक ! किमेष घोरसंसारे, नाथ ! ते विस्मृतो जनः ॥१॥ सद्भावप्रतिपन्नस्य, तारणे लोकबान्धव !। त्वयाऽस्य भुवनान्द !, येनाद्यापि विलम्ब्यते ॥२॥
* श्रीविमलेन संदब्धम्