________________
अध्याय-३ ]
138 [स्वाध्यायदोहनस्तुवतस्तावकं बिम्बमन्यथा कथमीदशः । प्रमोदातिशयश्चित्ते जायते भुवनातिगः पापाणुजनितस्तावत् तापः संसारिचेतसाम् । यावत्तेषां सदानन्द !, न मध्ये नाथ ! वर्तसे ॥६॥ येषां पुनर्विवर्तेथा, नाथ चित्तेषु देहिनाम् । पापाणवः क्षणात्तेषां, ध्वंसमायान्ति सर्वथा ॥७॥ ततस्ते द्राविताशेषपापपङ्कतया जनाः । सद्भावामृतसंसिक्ता, मोदन्ते नाथ सर्वदा ॥८॥ ते वराका न मुच्यन्तां, रागादिचरटैः कथम् । येषां नाथ भवान्नास्ति, तप्तिसानाथ्य कारकः ॥९॥
भवन्तमुररी कृत्य, नाथं निःशङ्कमानसाः । शिवं यान्ति मदादीनां, विधाय गलपादिकाम् ॥ १० ॥ न्यपतिष्यदिदं नाथ !, जगन्नरककूपके । अहिंसाहस्तदानेन यदि त्वं नाधरिष्यथाः ॥ ११ ॥ विलीनसकलक्लेशं निर्विकारं मनोहरम् । शरीरं पश्यतां नाथ, तावकीनमदो वरम् ॥ १२ ॥