________________
अध्याय-२ ]
112
[ स्वाध्यायदोहन
सुनिश्चितं मत्सरिणो जनस्य, न नाथ ! मुद्रामतिशेरते ते । माध्यस्थ्यमास्थाय परीक्षका ये, मणौ च काचेच समानुबन्धाः॥२७॥
इमां समक्षं प्रतिपक्षसाक्षिणामुदारघोषामवघोषणां ब्रुबे । 'नवीतरागात परमस्ति दैवतं,न चाप्यनेकान्तमृते नयस्थितिः।
न श्रद्धयैव त्वयि पक्षपातो, न द्वेषमात्रादरुचिः परेषु । यथावदाप्तत्वपरीक्षया तु, त्वामेव वीर ! प्रभुमाश्रिताः स्मः ॥२९॥ तमःस्पृशामप्रतिभासभाजं, भवन्तमप्याशु विविन्दते याः । महेम चन्द्रांशुदृशावदातास्तास्तर्कपुण्या जगदीश ! वाचः ॥ ३० ॥ यत्र तत्र समये यथा तथा, योऽसि सोऽस्यभिधया यया तया । वीतदोषकलुषः स चेद्भवानेक एव भगवन् ! नमोऽस्तु ते ॥ ३१ ॥
इदं श्रद्धामात्रं तदथ परनिन्दा मृदुधियो, विगाहन्तां हन्त ! प्रकृतिपरवादव्यसनिनः ।
अरक्तद्विष्टानां जिनवर ! परीक्षाक्षमधियामयं तत्त्वालोकः स्तुतिमयमुपाधि विधृतवान्॥ ३२ ॥
23