________________
अयोग द्वात्रिंशिका ] 111
[ अध्याय- २ जगन्ति भिन्दन्तु सृजन्तु वा पुनर्यथा तथा वा पतयः प्रवादिनाम् । त्वदेकनिष्ठे भगवन् ! भवक्षयक्षमोपदेशे तु परं तपस्विनः ॥ १९ ॥
"
वपुश्च पर्यङ्कायं लथं च दृशौ च नासानियते स्थिरे च । न शिक्षितेयं परतीर्थनाथै जिनेन्द्र ! मुद्राऽपि तवान्यदास्ताम् ||२०|
9
यदीयसम्क्त्वबलात् प्रतीमो भवादृशानां परमस्वभावम् । कुवासनापाशविनाशनाय, नमोऽस्तु तस्मै तव शासनाय ॥ २१ ॥
14
अपक्षपातेन परीक्षमाणा, द्वयं द्वयस्याप्रतिमं प्रतीमः । यथास्थितार्थप्रथनं तवैतदस्थाननिर्बन्धरसं परेषाम् ॥ २२ ॥
अनाद्यविद्योपनिषन्निषण्णैर्विश्रृङ्खलैश्चापलमाचरद्भिः ।
15
अमूढलक्ष्योऽपि पराक्रिये यत्, त्वत्किङ्करः किं करवाणि देव! ॥ २३ ॥
विमुक्तवैरव्यसनानुबन्धाः, श्रयन्ति यां शाश्वतवैरिणोऽपि । परैरगम्यां तव योगिनाथ !, तां देशनाभूमिमुपाश्रयेऽहम् ॥ २४ ॥
16
मदेन मानेन मनोभवेन, क्रोधेन लोभेन च सम्मदेन | पराजितानां प्रसभं सुराणां वृथैव साम्राज्यरुजा परेषाम् ||२५|| स्वकण्ठपीठे कठिनं कुठारं, परे किरन्तः प्रलपन्तु किचित् ।
17
मनीषिणां तु त्वयि वीतराग !, न रागमात्रेण मनोऽनुरक्तम् ॥ २६॥